Shiv Mahimna Stotram Mp3 Download in High Definition [HD] Audio
Shiv Mahimna Stotram Mp3 Download — Shiv Mahimna Stotram is a song devoted to lord Shiva. It has been sung by Pujya Bhaishree Rameshbhai Ojha.
Song Credits
- Song: Shiv Mahimna Stotram
- Artist: Pujya Bhaishree Rameshbhai Ojha
- Album: Shiv Mala Vol 1
Song Lyrics
महिम्न: पारं ते
परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि
तदवसन्नास्त्वयि गिर: ।
अथावाच्य: सर्व:
स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर
निरपवाद: परिकर: ।।1।।
अतीत: पन्थानं तव
च महिमा वाड्मनसयो –
रतद्व्यावृत्त्या यं
चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्य:
कतिविधगुण: कस्य विषय:
पदे त्वर्वाचीने पतति
न मन: कस्य न वच: ।।2।।
मधुस्फीता वाच:
परमममृतं निर्मितवत –
स्तव ब्रह्मन् किं
वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं
गुणकथनपुण्येन भवत:
पुनामीत्यर्थेsस्मिन्
पुरमथन बुद्धिर्व्यवसिता ।।3।।
तवैश्चर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं तिसृषु
गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन्
वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं
विदधत इहैके जडधिय: ।।4।।
किमीह: किंकाय स
खलु किमुपायस्त्रिभुवनं
किमाधारो धाता
सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदु:स्तो
हतधिय:
कुतर्कोsयं कांश्चिन्मुखरयति
मोहाय जगत: ।।5।।
अजन्मानो लोका:
किमवयववन्तोsपि जगता –
मधिष्ठातारं किं
भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद्
भुवनजनने क: परिकरो
यतो मन्दास्त्वां
प्रत्यमरवर संशेरत इमे ।।6।।
त्रयी सांख्यं योग:
पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने
परमिदमद: पथ्यमिति च ।
रुचीनां वैचित्र्यादृजु
कुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि
पयसामर्णव इव ।।7।।
महोक्ष: खट्वांगं परशु
रजिनं भस्म फणिन:
कपालं चेतीयत्तव व
रद तन्त्रोपकरणम् ।
सुरास्तां तामृधिं द
धति च भवद्भ्रूप्रणिहितां
न हि स्वात्मारामं विष
यमृगतृष्णा भ्रमयति ।।8।।
ध्रुवं कश्चित् सर्वं सक
लमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जग
ति गदति व्यस्तविषये ।
समस्ते sप्येतस्मिन् पु
रमथन तैर्विस्मित इव
स्तुवंजिह्रेमि त्वां न ख
लु ननु धृष्टा मुखरता ।।9।।
तवैश्चर्यं यत्नाद् यदुप
रि विरिंचो हरिरध:
परिच्छेत्तुं यातावनल
मनलस्कन्धवपुष: ।
ततो भक्तिश्रद्धाभर
गुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां त
व किमनुवृत्तिर्न फलति ।।10।।
अयत्नादापाद्य त्रिभुवन
मवैरव्यतिकरं
दशास्यो यद् बाहूनभृत
रणकण्डूपरवशान् ।
शिर:पद्मश्रेणीरचितचर
णाम्भोरुहबले:
स्थिरायास्त्वद्भक्तेस्त्रिपु
रहर विस्फूर्जितमिदम् ।।11।।
अमुष्य त्वत्सेवासमधि
गतसारं भुजवनं
बलात् कैलासेsपि
त्वदधिवसतौ विक्रमयत: ।
अलभ्या पातालेsप्यल
सचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमु
पचितो मुह्यति खल: ।।12।।
यदृद्धिं सुत्राम्णो वरद
परमोच्चैरपि सती –
मधश्चक्रे बाण: परिजन
विधेयत्रिभुवन: ।
न तच्चित्रं तस्मिन् वरिव
सितरि त्वच्चरणयो –
र्न कस्याप्युन्नत्यै भवति
शिरसस्त्वय्यवनति: ।।13।।
अकाण्डब्रह्माण्ड
क्षयचकितदेवासुरकृपा –
विधेयस्यासीद्यस्त्रिन
यनविषं संहृतवत: ।
स कल्माष: कण्ठे त
व न कुरुते न श्रियमहो
विकारोsपि श्लाघ्यो
भुवनभयभंगव्यसनिन: ।।14।।
असिद्धार्था नैव क्वचि
दपि सदेवासुरनरे
निवर्तन्ते नित्यं जग
ति जयिनो यस्य विशिखा: ।
स पश्यन्नीश त्वामित
रसुरसाधारणमभूत्
स्मर: स्मर्तव्यात्मा न
हि वशिषु पथ्य: परिभव: ।।15।।
मही पादाघाताद् व्रज
ति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुज
परिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृ
तजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु
वामैव विभुता ।।16।।
वियद्व्यापी तारागणगुणि
तफेनोद्ग्मरुचि:
प्रवाहो वारां य: पृषतल
घुदृष्ट: शिरसि ते ।
जगद् द्वीपाकारं जल
धिवलयं तेन कृतमि –
त्यनेनैवोन्नेयं धृतमहि
म दिव्यं तव वपु: ।।17।।
रथ: क्षोणी यन्ता शतधृ
तिरगेन्द्रो धनुरथो
रथांगे चन्द्रार्कौ रथच
रणपाणि: शर इति ।
दिधक्षोस्ते कोsयं त्रिपु
रतृणमाडम्बरविधि –
र्विधेयै: क्रीडन्त्यो न ख
लु परतन्त्रा: प्रभुधिय: ।।18।।
हरिस्ते साहस्त्रं कमल
बलिमाधाय पदयो –
र्यदेकोने तस्मिन् निज
मुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेक: परिण
तिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर
जागर्ति जगताम् ।।19।।
क्रतौ सुप्ते जाग्रत्त्वमसि
फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति
पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु
फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढप
रिकर: कर्मसु जन: ।।20।।
क्रियादक्षो दक्ष: क्रतुप
तिरधीशस्तनुभृता –
मृषीणामार्त्विज्यं श
रणद सदस्या: सुरगणा: ।
क्रतुभ्रेषस्त्वत्त: क्रतुफ
लविधानव्यसनिनो
ध्रुवं कर्तु: श्रद्धाविधुरम
भिचाराय हि मखा: ।।21।।
प्रजानाथं नाथ प्रसभम
भिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरम
यिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि
सपत्राकृतममुं
त्रसन्तं तेsद्यापि त्यजति
न मृगव्याधरभस: ।।22।।
स्वलावण्याशंसाधृतधनु
षमह्नाय तृणवत्
पुर: प्लुष्टं दृष्ट्वा पुरमथ
न पुष्पायुधमपि ।
यदि स्त्रैणं देवी य
मनिरतदेहार्धघटना –
दवैति त्वामद्धा बत
वरद मुग्धा युवतय: ।।23।।
श्मशानेष्वाक्रीडा स्म
रहर पिशाचा: सहचरा –
श्चिताभस्मलेप: स्त्रगपि
नृकरोटीपरिकर: ।
अमंगलल्यं शीलं तव भ
वतु नामैवमखिलं
तथापि स्मर्तृणां वरद
परमं मंगलमसि ।।24।।
मन: प्रत्यक्चित्ते सविधम
वधायात्तमरुत:
प्रहृष्यद्रोमाण: प्रमदस
लिलोत्संगितदृश: ।
यदालोक्याह्लादं हृद इ
व निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि
यमिनस्तत् किल भवान् ।।25।।
त्वमर्कस्त्वं सोमस्त्व
मसि पवनस्त्वं हुतवह –
स्त्वमापस्त्वं व्योम त्व
मु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि
परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमि
ह तु यत्त्वं न भवसि ।।26।।
त्रयीं तिस्त्रो वृत्तीस्त्रिभु
वनमथो त्रीनपि सुरा –
नकाराद्यैर्वर्णैस्त्रिभिर
भिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनि
भिरवरुन्धानमणुभि:
समस्तं व्यस्तं त्वं शर
णद गृणात्योमिति पदम् ।।27।।
भव: शर्वो रुद्र: पशुपति
रथोग्र: सहमहां –
स्तथा भीमेशानाविति
यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविच
रति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रविहि
नमस्योsस्मि भवते ।।28।।
नमो नेदिष्ठाय प्रियदव
दविष्ठाय च नमो
नम: क्षोदिष्ठाय स्मरहर
महिष्ठाय च नम: ।
नमो वर्षिष्ठाय त्रिनयन
यविष्ठाय च नमो
नम: सर्वस्मै ते तदिदमि
ति शर्वाय च नम: ।।29।।
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम:
प्रबलतमसे तत्संहारे हराय नमो नम: ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम:
प्रमहसि पदे निस्त्रैगुण्ये
शिवाय नमो नम: ।।30।।
कृशपरिणति चेत:
क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लं
घिनी शश्वदृद्धि: ।
इति चकितममन्दीकृ
त्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्य
पुष्पोपहारम् ।।31।।
असितगिरिसमं स्यात्
कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेख
नी पत्रमुर्वी ।
लिखति यदि गृहीत्वा
शारदा सर्वकालं
तदपि तव गुणानामीश
पारं न याति ।।32।।
असुरसुरमुनीन्द्रैरर्चि
तस्येन्दुमौले –
र्ग्रथितगुणमहिम्नो नि
र्गुणस्येश्वरस्य ।
सकलगणवरिष्ठ: पु
ष्पदन्ताभिधानो
रुचिरमलघुवृत्तै: स्तो
त्रमेतच्चकार ।।33।।
अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्
पठति परमभक्त्या शु
द्धचित्त: पुमान् य: ।
स भवति शिवलोके
रुद्रतुल्यस्तथात्र
प्रचुरतरधनायु: पुत्रवा
न् कीर्तिमांश्च ।।34।।
महेशान्नापरो देवो महि
म्नो नापरा स्तुति: ।
अघोरान्नापरो मन्त्रो ना
स्ति तत्त्वं गुरो: परम् ।।35।।
दीक्षा दानं तपस्तीर्थं ज्ञा
नं यागादिका: क्रिया: ।
महिम्न: स्तवपाठस्य क
लां नार्हन्ति षोडशीम् ।।36।।
कुसुमदशननामा
सर्वगन्धर्वराज:
शिशुशशिधरमौलेर्देव
देवस्य दास: ।
स खलु निजमहिम्नो भ्रष्ट
एवास्य रोषात्
स्तवनमिदमकार्षीद्
दिव्यदिव्यं महिम्न: ।।37।।
सुरवरमुनिपूज्यं स्वर्ग
मोक्षैकहेतुं
पठति यदि मनु
ष्य: प्रांजलिर्नान्यचेता: ।
व्रजति शिवसमीपं कि
न्नरै: स्तूयमान:
स्तवनमिदममोघं पुष्प
दन्तप्रणितम् ।।38।।
आसमाप्तमिदं स्तोत्रं
पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि
शिवमीश्वरवर्णनम् ।।39।।
इत्येषा वाड्मयी पूजा
श्रीमच्छंकरपादयो: ।
अर्पिता तेन देवेश: प्री
यतां मे सदाशिव: ।।40।।
तव तत्त्वं न जानामि
कीदृशोsसि महेश्वर ।
यादृशोsसि महादेव ता
दृशाय नमो नम: ।।41।।
एककालं द्विकालं
वा त्रिकालं य: पठेन्नर: ।
सर्वपापविनिर्मुक्त:
शिवलोके महीयते ।।42।।
श्रीपुष्पदन्तमुख
पंकजनिर्गतेन
स्तोत्रेण किल्बि
षहरेण हरप्रियेण ।
कण्ठस्थितेन पठि
तेन समाहितेन
सुप्रीणितो भवति भू
तपतिर्महेश: ।।43।।
।।इति गन्ध्र्वराजपुष्पदन्त
कृतं शिवमहिम्न:
स्तोत्रं सम्पूर्णम् ।।
Shiv Mahimna Stotram Mp3 Download Here
Also Download Sun Sun Barsat Ki Dhun Jubin Nautiyal Mp3 Download in High Definition